Sunday, November 22, 2015

SHANTI SUKTAM


शान्ति सूक्तम
अथर्ववेदं, १९.
शा॒न्ता द्यौः शा॒न्ता पृ॑थि॒वी शा॒न्तमि॑दमु॒र्व॑न्तरि॑क्षम्
शा॒न्ता उ॑दन्वती॒रापः॑ शा॒न्ता नः॑ स॒न्त्वोष॑धीः ॥१॥

शा॒न्तानि॑ पूर्वरू॒पाणि॑ शा॒न्तं नो॑ अस्तु कृ॒ताकृतम्
शा॒न्तं भू॒तं च॒ भव्यं॑ च॒ सर्व॑मे॒व शम॑न्तु नः॥२॥

इ॒यं या प॑रमे॒ष्ठिनी॒ वाग्दे॒वी ब्रह्म॑संशिता
ययै॒व स॑सृ॒जे घो॒रं तयै॒व शान्ति॑रस्तु नः॥३॥

इ॒दं यत्प॑रमे॒ष्टिनं॒ मनो॑ वां॒ ब्रह्म॑संशितम्
येनै॒व स॑सृ॒जे घो॒रं तेनै॒व शान्ति॑रस्तु नः॥४॥

इ॒मानि॒ यानि॒ पञ्चे॑न्द्रि॒याणि॒ मनः॑ षष्ठानि मे हृ॒दि ब्रह्म॑णा संशि॑ता॒नि।
यैरे॒व स॑सृ॒जे घो॒रं तैरेव शान्ति॑रस्तु नः॥५॥

शंनो॑मि॒त्रःशं वरु॑णः॒ शंविष्णुः॒ शंप्रजाप॑तिः।
शंन॒इन्द्रो॒ बृह॒स्पतिः॒ शंनो॑ भवत्वर्य॒मा॥६॥

शंनो॒मि॒त्रः शंवरु॑णः॒ शंवि॒वस्वा॒ञ्चमन्त॑कः।
उ॒त्पाताः॒ पार्थि॑वा॒न्तरि॑क्षाः॒ शंनो॑दि॒विच॑रा॒ ग्रहाः॑॥७॥

शंनो॒भूमि॑र्वेप्यमा॒ना शमु॒ल्का निर्ह॑तं च॒ यत्
शंगावो॒ लोहि॑त क्षीराः॒ शं भूमि॒रव॑ तीर्य॒तीः॥८॥

नक्ष॑त्रमु॒ल्काभिह॑तं॒ शम॒न्तु॒नः॒ शं नो॑भिचा॒राः शमु॑सन्तुकृ॒त्याः।
शंनो॒ निखा॑ता व॒ल्गाः शमुल्का दे॑शोपस॒र्गाः शमु॑ नो भवन्तु ॥९॥

शंनो॒ ग्रहा॑शान्द्रम॒सा शमा॑दि॒त्यश्च॒ राहु॒णा
शंनो॑ मृ॒त्युर्धू॒मके॑तुः॒ शंरु॒द्रास्ति॒ग्मते॑जसः॥१०॥

शं रु॒द्राः शं वस॑वः॒ शमा॑दि॒त्याः शम॒ग्नयः॑
शंनो॑ मह॒र्षयो॑दे॒वाः शं दे॒वाः शं बृह॒स्पतिः॥११॥

ब्रह्म॑प्र॒जाप॑तिर्धा॒ता लो॒का वे॒दाः स॑प्त
ऋ॒ष॒योऽग्नयः॑ तैर्मे॑कृ॒तं स्व॒स्त्यय॑न॒मिन्द्रो॑
मे॒ शर्म॑ यच्छतु ब्र॒ह्ममे॒ शर्म॑ यच्छतु विश्वे॑मे
दे॒वाः शर्म॑ यच्छन्तु॒ सर्वे॑मेदे॒वाः शर्म॑ यच्छन्तु ॥१२॥

यानि॒ कानि॑ चिच्छा॒न्तानि॒ लोके॑ सप्तऋ॒ष॑यो वि॒दुः
सर्वा॑णि॒ शं भ॑वन्तु मे॒ शं मे॑ अ॒स्त्वभ॑यं मे अस्तु ॥१३॥

पृ॒थि॒वी शान्ति॑र॒न्तरि॑क्षं॒ शान्ति॒द्र्यौः शान्ति॒रापः॒ शान्ति॒रोष॑ध॒यः शान्ति॒र्वन॒स्पत॑यः शान्ति॒र्विश्वे॑ मे दे॒वाः शान्तिः॒ सर्वे॑मे दे॒वाः शान्तिः॑ शान्तिः॒ शान्तिः॒ शान्ति॑भिः॒ ताभिः॒ शान्ति॑भिः॒ सर्व॒ शान्ति॑भिः॒ शम॑योमो॒हं यदि॒ह घो॒रं यदि॒ह कृरं यदि॒ह पा॒पं तच्छा॒न्तं तच्छिवं सर्व॑मेव शमन्तुनः ॥१४॥

शान्तिः॒ शान्तिः॒ शान्तिः॑

No comments:

Post a Comment